|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.82. अध्यायः 082
Mahabharata - Bhishma Parva - Chapter Topics
द्रोणेन विराटसूनोः शङ्खस्य वधः ॥ 1 ॥ द्वन्द्वयुद्धम् ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-82-0x(4160)(42297)
प्रवृत्तमात्रे संग्रामे निवृत्ते च सुशर्मणि ।
भग्नेषु चापि वीरेषु पाण्डवेन महात्मना ॥ 6-82-1(42298)
क्षुभ्यमाणे बले तूर्णं सागरप्रतिमे तव।
प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति ॥ 6-82-2(42299)
दृष्ट्वा दुर्योधनो राजा रणे पार्थस्य विक्रमम् ।
त्वरमाणः समभ्येत्य सर्वांस्तानब्रवीन्नृपान् ॥ 6-82-4aतेषां तु प्रमुखे शूरं सुशर्माणं महाबलम् ।
मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन्निव॥ 6-82-3(42300)
एष भीष्मः शान्तनवो योद्धुकामो धनञ्जयम् ।
सर्वात्मना कुरुश्रेष्ठस्त्यक्त्वा जीवितमात्मनः ॥ 6-82-5(42301)
तं प्रयान्तं रणे वीरं सर्वसैन्येन भारतम् ।
संयत्ताः समरे सर्वे पालयध्वं पितामहम् ॥ 6-82-6(42302)
बाढमित्येवमुक्त्वा तु तान्यनीकानि सर्वशः ।
नरेन्द्राणां महाराज समाजग्मुः पितामहम् ॥ 6-82-7(42303)
ततः प्रयातः सहसा भीष्मः शान्तनवोऽर्जुनम् ।
रणे भारतमायान्तमाससाद महाबलः ॥ 6-82-8(42304)
महाश्वेताश्वयुक्तेन भीमवानरकेतुना ।
महता मेघनादेन रथेनातिविराजता ॥ 6-82-9(42305)
समरे सर्वसैन्यानामुपयानं धनञ्जयम्।
अभवत्तुमुलो नादो भयाद्दृष्ट्वा किरीटिनम् ॥ 6-82-10(42306)
अभीशुहस्तं कृष्णं च दृष्ट्वादित्यमिवापरम् ।
मध्यंदिनगतं सङ्ख्ये न शेकुः प्रतिवीक्षितुम् ॥ 6-82-11(42307)
तथा शान्तनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम् ।
न शेकुः पाण्डवा द्रष्टुं श्वेतं ग्रहमिवोदितम् ॥ 6-82-12(42308)
स सर्वतः परिवृतस्त्रिगर्तैः सुमहात्मभिः ।
भ्रातृभिः सह पुत्रैश्च तथाऽन्यैश्च महारथैः ॥ 6-82-13(42309)
भारद्वाजस्तु समरे मत्स्यं विव्याध पत्रिणा।
ध्वजं चास्य शरेणाजौ धनुश्चैकेन चिच्छिदे ॥ 6-82-14(42310)
तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः ।
अन्यदादत्त वेगेन धनुर्भारसहं दृढम् ॥ 6-82-15(42311)
शरांश्चाशीविषाकाराज्ज्वलितान्पन्नगानिव ।
द्रोणं त्रिभिश्च विव्याध चतुर्भिश्चास्य वाजिनः ॥ 6-82-16(42312)
ध्वजमेकेन विव्याधक सारथिं चास्य पञ्चभिः ।
धनुरेकेषुणाऽविध्यत्तत्राक्रुध्यद्द्विजर्षभः ॥ 6-82-17(42313)
तस्य द्रोणोऽवधीदश्वाञ्शरैः सन्नतपर्वभिः।
अष्टाभिर्भरतश्रेष्ठ सूतमेकेन पत्रिणा ॥ 6-82-18(42314)
स हताश्वादवप्लुत्य स्यन्दनाद्धतसारथिः।
आरुरोह रथं तूर्णं पुत्रस्य रथिनां वरः ॥ 6-82-19(42315)
ततस्तु तौ पितापुत्रौ भारद्वाजं रथे स्थितौ ।
महता शरवर्षेण वारयामाससतुर्बलात् ॥ 6-82-20(42316)
भारद्वाजस्ततः क्रुद्धः शरमाशीविषोपमम् ।
चिक्षेप समरे तूर्णं शङ्खं प्रति जनेश्वरः ॥ 6-82-21(42317)
स तस्य हृदयं भित्त्वा पीत्त्वा शोणितमाहवे।
जगाम धरणीं बाणो लोहितार्द्रवरच्छदः ॥ 6-82-22(42318)
स पपात रणे तूर्णं भारद्वाजशराहतः।
धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः ॥ 6-82-23(42319)
हतं तमात्मजं दृष्ट्वा विराटः प्राद्रवद्भयात्।
उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम् ॥ 6-82-24(42320)
भारद्वाजस्ततस्तूर्णं पाण्डवानां महाचमूम्।
दारयामास समरे शतशोऽथ सहस्रशः ॥ 6-82-25(42321)
शिखण्डी तु महाराज द्रौणिमासाद्य संयुगे।
आजघान भ्रवोर्मध्ये नाराचैस्त्रिभिराशुगैः ॥ 6-82-26(42322)
स बभौ रथशार्दूलो ललाटे संस्थितैस्त्रिभिः ।
शिखरैः काञ्चनमयैर्मेरुस्त्रिभिरिवोच्छ्रितैः ॥ 6-82-27(42323)
अश्वत्थाम ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः ।
ध्वजं सूतमथो राजंस्तुरगानायुधानि च ॥ 6-82-28(42324)
शरैर्बहुभिराच्छिद्य पातयामास संयुगे ष।
स हताश्वादवप्लुत्य रथाद्वै रथिनां वरः ॥ 6-82-29(42325)
खङ्गमादाय सुशितं विमलं च शरावरम् ।
श्येनवद्व्यचरत्क्रुद्धः शिखण्डी शत्रुतापनः ॥ 6-82-30(42326)
सखङ्गस्य महाराज चरतस्तस्य संयुगे ।
नान्तरं ददृशे द्रौणिस्तदद्भुतमिवाभवत् ॥ 6-82-31(42327)
ततः शरसहस्राणि बहूनि भरतर्षभ ।
प्रेषयामास समरे द्रौणिः परमकोपनः ॥ 6-82-32(42328)
तामापतन्तीं समरे शरवृष्टिं सुदारुणाम्।
असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः ॥ 6-82-33(42329)
ततोऽस्य विमलं द्रौणिः शतचन्द्रं मनोरमम्।
चर्माच्छिनदसिं चास्थ खण्डयामास संयुगे ॥ 6-82-34(42330)
शितैस्तु बहुशो राजंस्तं च विव्याध पत्रिभिः ।
शिखण्डी तु ततः खङ्गं खण्डितं तेन सायकैः ॥ 6-82-35(42331)
आविध्य व्यसृजत्तूर्णं ज्वलन्तमिव पन्नगम् ।
तमापतन्तं सहसा कालानलसमप्रभम् ॥ 6-82-36(42332)
चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् ।
शिखण्डिनं च विव्याध शरैर्बहुभिरायसैः ॥ 6-82-37(42333)
शिखण्डी तु भृशं राजंस्तड्यमानः शितैः शरैः ।
आरुरोह रथं तूर्णं माधवस्य महात्मनः ॥ 6-82-38(42334)
सात्यकिश्चापि संक्रुद्धो राक्षसं क्रूरमाहवे।
अलम्बुसं शरैस्तीक्ष्णैर्विव्याध बलिनां वरः ॥ 6-82-39(42335)
राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद भारत।
अर्धचन्द्रेण समरे तं च विव्याध सायकैः ॥ 6-82-40(42336)
मायां च राक्षसीं कृत्वा शरवर्षैरवाकिरत्।
तत्राद्भुतमपश्याम शैनेयस्य पराक्रमम् ॥ 6-82-41(42337)
असंभ्रमस्तु समरे वध्यमानः शितैः शरैः ।
ऐन्द्रमस्त्रं च वार्ष्णेयो योजयामास भारत ॥ 6-82-42(42338)
विजयाद्यदनुप्राप्तं माधवेन यशस्विना।
तदस्त्रं भस्मासात्कृत्वा मायां तां राक्षसीं तदा ॥ 6-82-43(42339)
अलम्बुसं शरैरन्यैरभ्याकिरत सर्वतः।
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥ 6-82-44(42340)
तत्तथा पीडितं तेन माधवेन यशस्विना ।
प्रदुद्राव भयाद्रक्षस्त्यक्त्वा सात्यकिमाहवे ॥ 6-82-45(42341)
........ माघवता जित्वा भारत सात्यकिः।
शैनेयः प्राणद़ज्जित्वा योधानां तव पश्यताम् ॥ 6-82-46(42342)
न्यहनत्तावकांश्चापि सात्यकिः सत्यविक्रमः ।
निशितैर्बहुभिर्बाणैस्तेऽद्रवन्त भयार्दिताः ॥ 6-82-47(42343)
एतस्मिन्नेव काले तु द्रुपदस्यात्मजो बली।
धृष्टद्युम्नो महाराज पुत्रं तव जनेश्वरम् ॥ 6-82-48(42344)
छादयामास समरे शरैः सन्नतपर्वभिः ।
स च्छाद्यमानो विशिखैर्धृष्टद्युम्नेन भारत ॥ 6-82-49(42345)
विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वर ।
धृष्टद्युम्नं च समरे तूर्णं विव्याध पत्रिभिःक ॥ 6-82-50(42346)
षष्ट्या च त्रिंशता चैव तदद्भुतमिवाभवत् ।
तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष ॥ 6-82-51(42347)
हयांश्च चतुरः शीघ्रं निजघान महाबलः ।
शरैश्चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः ॥ 6-82-52(42348)
स हताश्वान्महाबाहुरवप्लुत्य रथाद्बली ।
पदातिरसिमुद्यम्य प्राद्रवत्पार्षतं प्रति॥ 6-82-53(42349)
शकुनिस्तं समभ्येत्य राजगृद्धी महाबलः ।
राजानं सर्वलोकस्य रथमारोपयत्स्वकम् ॥ 6-82-54(42350)
ततो नृपं पराजित्य पार्षतः परवीरहा ।
न्यहनत्तावकं सैन्यं वज्रपाणिरिवासुरान् ॥ 6-82-55(42351)
कृतवर्मा रणे भीमं शरैरार्च्छन्महारथः ।
प्रच्छादयामास च तं महामेघो रविं यथा ॥ 6-82-56(42352)
ततः प्रहस्य समरे भीमसेनः परंतपः ।
प्रेषयामास संक्रुद्धः सायंकान्कृतवर्मणे ॥ 6-82-57(42353)
तैरर्द्यमानोऽतिरथः सात्वतः शस्त्रकोविदः ।
नाकम्पत महाराज भीमं चार्च्छच्छितैः शरैः ॥ 6-82-58(42354)
तस्याश्वांश्चतुरो हत्वा भीमसेनो महारथः ।
सारथिं पातयामास सध्वजं सुपरिष्कृतम् ॥ 6-82-59(42355)
शरैर्बहुविधैश्चैनमाचिनोत्परवीरहा ।
शकलीकृतसर्वाङ्गः श्वावित्तु शललैर्यथा ॥ 6-82-60(42356)
हताश्वश्च ततस्तूर्णं सुबलस्य रथं ययौ।
स्वालस्य ते महाराज तव पुत्रस्य पश्यतः ॥ 6-82-61(42357)
भीमसेनोऽपि संक्रुद्धस्तव सैन्यमुपाद्रवत्।
निजघान च संक्रुद्धो दण्डपाणिरिवान्तकः ॥ ॥ 6-82-62(42358)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमदिवसयुद्धे द्वशीतितमोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-82-60 सर्वाङ्गो हताश्वः प्रत्यदृश्यतेति झo पाठः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|